The Commission publishes this paper without an answer key, so no answers are shown.
1. आर्हताभिमतं स्याद्वादं स्पष्टयत। (4)
2. दर्शनमालानुसारेण खेचरीमुद्रां लक्षयत। (4)
3. प्राज्ञः कः? कीदृशः? (4)
4. शूद्राणां वेदाधिकारविषये चट्टम्पिस्वामिनः मतं किम्? (4)
5. भाट्टमीमांसकानां प्रमाणलक्षणं किम्? प्रमाणानि कति? कानि? (4)
6. कारणमस्त्यव्यक्तम्-यथासांख्यं समर्थयत। (5)
7. मायावादस्य अनुबन्धान् द्वैतरीत्या खण्डयत। (5)
8. ज्ञानस्य द्रव्यगुणात्मकत्वं यतीन्द्रमतानुसारं समर्थयत। (5)
9. योगाभिमतम् अविद्यास्वरूपं विशदयत। (5)
10. “सदेव सोम्येदमग्र आसीत्”-वाक्यमिदं छान्दोग्योपनिषदः शाङ्करभाष्यदिशा व्याख्यात। (5)
11. प्रकृतिश्चोपादानकारणं च ब्रह्म अभ्युपगन्तव्यं निमित्तकारणञ्च-शारीरिकभाष्यानुसारं स्पष्टयत। (5)
12. भगवद्गीताभाष्यदिशा स्थितप्रज्ञस्वरूपं संक्षिपत। (5)
13. परिभाषाकारस्य मते तत्त्वमसिवाक्यस्य शाब्दबोधः कथम् इति निरूपयत। (5)
14. अद्वैतसिद्धि दिशा ‘प्रथममिथ्यात्वम्’ विवृणुत। (5)
15. एकस्य साधकेन अपरस्य बाध्यत्वं कथम्? अद्वैतसिद्धिमनुसृत्य विशदयत। (5)
16. पूर्वमीमांसादर्शनस्य प्रतिपाद्यं, षड्दर्शनेषु दर्शनस्यास्य स्थानं च निरूपयत। (6)
17. निर्विकल्पकसमाधेः अष्टाङ्गानि, विघ्नचतुष्टयानि च प्रतिपादयत। (6)
18. कस्मात् यमः नचिकेतसं प्रलोभयत? प्रलोभनानि कानि? (6)
19. श्रीनारायणगुरुणा कथं परमेश्वरस्य प्रपञ्चकर्तृत्वं समर्थितम्? (6)
20. सन्निकर्षाः कति? कानि? विशदयत। (6)
Discussion
Ask a doubt or share a tip.
No comments yet — start the discussion.