The Commission publishes this paper without an answer key, so no answers are shown.
1. बौद्धदर्शनान्तर्गतान् सम्प्रदायान् परिचाययत। (4)
2. कैरलीयदार्शनिकग्रन्थेषु ‘अद्वैतचिन्तापद्धती’ नाम ग्रन्थस्य स्थानं निर्णयत। (4)
3. माण्डूक्योपनिषदनुसृत्य मात्राः निरूपयत। (4)
4. वाग्भटानन्दः इति नामकरणं केन कृतम्? किमर्थं? विशदयत। (4)
5. प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः कतिविधः? विशदयत। (4)
6. संयोग एव भोगापवर्गार्थं सर्गं करोति-स्पष्टयत। (5)
7. समाधेः तत्फललाभस्य च प्रकृष्टः उपायः कः? विशदयत। (5)
8. कालः अनिर्दिश्यो वा न वेति परिशोधयत। (5)
9. तत्त्वसङ्ख्याने प्रतिपादितान् तत्त्वभेदान् विवृणुत। (5)
10. अन्नमयं हि मनः आपोमयः प्राणस्तैजोमयी वागिति। कथं विज्ञापयति? (5)
11. योगरूढस्तदोच्यते। कदा? (5)
12. चैतन्यमादिमदित्युच्यते कथम्? (5)
13. कोकस्योदधि रक्ष्यताम्। कस्य उदाहरणम्? कथम्? (5)
14. ‘मधुसूदनसरस्वत्या पारं वेत्ति सरस्वती’ वचनमिदम् अद्वैतसिद्धिमधिकृत्य परिशोधयत। (5)
15. चतुर्थपञ्चममिथ्यात्वयोः साधर्म्यवैधर्म्याः प्रतिपादयत। (5)
16. प्रमाणविषये आस्तिकदर्शनानां मतभेदं विशदयत। (6)
17. वेदान्तसारोक्तं अज्ञानलक्षणं दर्शनमालायाः मायादर्शनं च तारतम्यं विशदयत। (6)
18. श्रेयश्च प्रेयश्च मनुष्यमेतः। विशदयत। (6)
19. वेदान्तदर्शने श्रीनारायणगुरुदेवस्य योगदानं निरूपयत। (6)
20. व्याकरणमहाभाष्यानुसारेण व्याकरणस्य मुख्य प्रयोजनानि कानि? विशदयत। (6)
Discussion
Ask a doubt or share a tip.
No comments yet — start the discussion.